७.१३.६

दन्ततोरणविन्यस्तं वज्रस्फटिकवेदिकम् ।
सर्वर्तुसुखदं नित्यं मेरोः पुण्यां गुहामिव ॥

पदच्छेदः

दन्ततोरणविन्यस्तंदन्त–तोरण–विन्यस्त (√विनि-अस् + क्त, २.१)
वज्रस्फटिकवेदिकम्वज्र–स्फटिक–वेदिका (२.१)
सर्वर्तुसुखदंसर्व–ऋतु–सुख–द (२.१)
नित्यंनित्यम् (अव्ययः)
मेरोःमेरु (६.१)
पुण्यांपुण्य (२.१)
गुहाम्गुहा (२.१)
इवइव (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

न्त तो वि न्य स्तं
ज्रस्फटि वेदि कम्
र्वर्तुसु दं नि त्यं
मे रोः पु ण्यांगु हामि