७.१३.८

निद्राभिभूते तु तदा कुम्भकर्णे दशाननः ।
देवर्षियक्षगन्धर्वान्बाधते स्म स नित्यशः ॥

पदच्छेदः

निद्राभिभूतेनिद्रा–अभिभूत (√अभि-भू + क्त, ७.१)
तुतु (अव्ययः)
तदातदा (अव्ययः)
कुम्भकर्णेकुम्भकर्ण (७.१)
दशाननःदशानन (१.१)
देवर्षियक्षगन्धर्वान्देव–ऋषि–यक्ष–गन्धर्व (२.३)
बाधतेबाधते (√बाध् लट् प्र.पु. एक.)
स्मस्म (अव्ययः)
तद् (१.१)
नित्यशःनित्यशस् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नि द्राभि भू तेतु दा
कुम्भ र्णे शा नः
देर्षिक्ष न्ध र्वा
न्बा तेस्म नित्य शः