७.१४.२१

ततः काञ्चनचित्राङ्गं वैदूर्यरजतोक्षितम् ।
मर्यादां द्वारपालानां तोरणं तत्समाविशत् ॥

पदच्छेदः

ततःततस् (अव्ययः)
काञ्चनचित्राङ्गंकाञ्चन–चित्र–अङ्ग (२.१)
वैदूर्यरजतोक्षितम्वैडूर्य–रजत–उक्षित (√उक्ष् + क्त, २.१)
मर्यादांमर्यादा (२.१)
द्वारपालानांद्वारपाल (६.३)
तोरणंतोरण (२.१)
तत्तद् (२.१)
समाविशत्समाविशत् (√समा-विश् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तः काञ्च चि त्रा ङ्गं
वै दूर्य तोक्षि तम्
र्या दां द्वा पा ला नां
तो णंत्स मावि शत्