७.१४.२३

ततस्तोरणमुत्पाट्य तेन यक्षेण ताडितः ।
राक्षसो यक्षसृष्टेन तोरणेन समाहतः ।
न क्षितिं प्रययौ राम वरात्सलिलयोनिनः ॥

पदच्छेदः

ततस्तोरणम्ततस् (अव्ययः)–तोरण (२.१)
उत्पाट्यउत्पाट्य (√उत्-पाटय् + ल्यप्)
तेनतद् (३.१)
यक्षेणयक्ष (३.१)
ताडितःताडित (√ताडय् + क्त, १.१)
राक्षसोराक्षस (१.१)
यक्षसृष्टेनयक्ष–सृष्ट (√सृज् + क्त, ३.१)
तोरणेनतोरण (३.१)
समाहतःसमाहत (√समा-हन् + क्त, १.१)
(अव्ययः)
क्षितिंक्षिति (२.१)
प्रययौप्रययौ (√प्र-या लिट् प्र.पु. एक.)
रामराम (८.१)
वरात्वर (५.१)
सलिलयोनिनःसलिलयोनि (६.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
स्तो मु त्पाट्य ते क्षे
ताडि तः राक्ष सोक्ष सृ ष्टे
तो णे मा तःक्षि तिंप्र
यौ रा रात्सलि योनि नः