७.१४.४

तं निविष्टं गिरौ तस्मिन्राक्षसेन्द्रं निशम्य तु ।
राज्ञो भ्रातायमित्युक्त्वा गता यत्र धनेश्वरः ॥

पदच्छेदः

तंतद् (२.१)
निविष्टंनिविष्ट (√नि-विश् + क्त, २.१)
गिरौगिरि (७.१)
तस्मिन्तद् (७.१)
राक्षसेन्द्रंराक्षस–इन्द्र (२.१)
निशम्यनिशम्य (√नि-शामय् + ल्यप्)
तुतु (अव्ययः)
राज्ञोराजन् (६.१)
भ्रातायम्भ्रातृ (१.१)–इदम् (१.१)
इत्युक्त्वाइति (अव्ययः)–उक्त्वा (√वच् + क्त्वा)
गतागत (√गम् + क्त, १.३)
यत्रयत्र (अव्ययः)
धनेश्वरःधनेश्वर (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तंनि वि ष्टंगि रौस्मि
न्राक्ष से न्द्रंनिम्यतु
रा ज्ञो भ्रा ता मि त्यु क्त्वा
तात्र नेश्व रः