७.१४.५

गत्वा तु सर्वमाचख्युर्भ्रातुस्तस्य विनिश्चयम् ।
अनुज्ञाता ययुश्चैव युद्धाय धनदेन ते ॥

M N Dutt

Going to him they in full related all about the doings of his brother. And on being permitted by the bestower of treasures, they went out for battle.

पदच्छेदः

गत्वागत्वा (√गम् + क्त्वा)
तुतु (अव्ययः)
सर्वम्सर्व (२.१)
आचख्युर्आचख्युः (√आ-ख्या लिट् प्र.पु. बहु.)
भ्रातुस्तस्यभ्रातृ (६.१)–तद् (६.१)
विनिश्चयम्विनिश्चय (२.१)
अनुज्ञाताअनुज्ञात (√अनु-ज्ञा + क्त, १.३)
ययुश्चैवययुः (√या लिट् प्र.पु. बहु.)–च (अव्ययः)–एव (अव्ययः)
युद्धाययुद्ध (४.१)
धनदेनधनद (३.१)
तेतद् (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्वातुर्व माख्यु
र्भ्रा तु स्तस्यवि निश्च यम्
नु ज्ञा ता यु श्चै
यु द्धा दे ते