७.१५.१

ततस्तान्विद्रुतान्दृष्ट्वा यक्षाञ्शतसहस्रशः ।
स्वयमेव धनाध्यक्षो निर्जगाम रणं प्रति ॥

पदच्छेदः

ततस्तान्ततस् (अव्ययः)–तद् (२.३)
विद्रुतान्विद्रुत (√वि-द्रु + क्त, २.३)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
यक्षाञ्शतसहस्रशःयक्ष (२.३)–शत–सहस्रशस् (अव्ययः)
स्वयम्स्वयम् (अव्ययः)
एवएव (अव्ययः)
धनाध्यक्षोधनाध्यक्ष (१.१)
निर्जगामनिर्जगाम (√निः-गम् लिट् प्र.पु. एक.)
रणंरण (२.१)
प्रतिप्रति (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्ता न्विद्रु ता न्दृ ष्ट्वा
क्षाञ्शस्र शः
स्व मे ना ध्य क्षो
निर्ज गा णंप्रति