७.१६.१३

संक्रुद्धो भगवान्नन्दी शंकरस्यापरा तनुः ।
अब्रवीद्राक्षसं तत्र दशग्रीवमुपस्थितम् ॥

M N Dutt

Thereat, growing enraged, the reverend Nandi Sankara's other body spoke into that Rākṣasa The Ten-necked one present there.

पदच्छेदः

संक्रुद्धोसंक्रुद्ध (√सम्-क्रुध् + क्त, १.१)
भगवान्नन्दीभगवत् (१.१)–नन्दिन् (१.१)
शंकरस्यापराशंकर (६.१)–अपर (१.१)
तनुःतनु (१.१)
अब्रवीद्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
राक्षसंराक्षस (२.१)
तत्रतत्र (अव्ययः)
दशग्रीवम्दशग्रीव (२.१)
उपस्थितम्उपस्थित (√उप-स्था + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सं क्रु द्धो वा न्न न्दी
शं स्या रा नुः
ब्र वी द्राक्ष संत्र
ग्रीमुस्थि तम्