७.१६.१४

यस्माद्वानरमूर्तिं मां दृष्ट्वा राक्षसदुर्मते ।
मौर्ख्यात्त्वमवजानीषे परिहासं च मुञ्चसि ॥

पदच्छेदः

यस्माद्यस्मात् (अव्ययः)
वानरमूर्तिंवानर–मूर्ति (२.१)
मांमद् (२.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
राक्षसराक्षस (८.१)
दुर्मतेदुर्मति (८.१)
मौर्ख्यात्मौर्ख्य (५.१)
त्वम्त्वद् (१.१)
अवजानीषेअवजानीषे (√अव-ज्ञा लट् म.पु. )
परिहासंपरिहास (२.१)
(अव्ययः)
मुञ्चसिमुञ्चसि (√मुच् लट् म.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्मा द्वा मू र्तिं मां
दृ ष्ट्वा राक्ष दुर्म ते
मौ र्ख्यात्त्व जा नी षे
रि हा सं मुञ्चसि