७.१६.१८

पुष्पकस्य गतिश्छिन्ना यत्कृते मम गच्छतः ।
तदेतच्छैलमुन्मूलं करोमि तव गोपते ॥

M N Dutt

'O Gopati, I will even uproot this mountain, for whom Pușpaka was deprived of its motion as I was journeying.

पदच्छेदः

पुष्पकस्यपुष्पक (६.१)
गतिश्छिन्नागति (१.१)–छिन्न (√छिद् + क्त, १.१)
यत्कृतेयत् (अव्ययः)–कृते (अव्ययः)
मममद् (६.१)
गच्छतःगच्छत् (√गम् + शतृ, ६.१)
तद्तद् (२.१)
एतच्छैलम्एतद् (२.१)–शैल (२.१)
उन्मूलंउन्मूल (२.१)
करोमिकरोमि (√कृ लट् उ.पु. )
तवत्वद् (६.१)
गोपतेगोपति (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पुष्पस्य ति श्छि न्ना
त्कृ तेच्छ तः
दे च्छै मु न्मू लं
रोमि गो ते