७.१६.२

अथापश्यद्दशग्रीवो रौक्मं शरवणं तदा ।
गभस्तिजालसंवीतं द्वितीयमिव भास्करम् ॥

पदच्छेदः

अथापश्यद्अथ (अव्ययः)–अपश्यत् (√पश् लङ् प्र.पु. एक.)
दशग्रीवोदशग्रीव (१.१)
रौक्मंरौक्म (२.१)
शरवणंशरवण (२.१)
तदातदा (अव्ययः)
गभस्तिजालसंवीतंगभस्ति–जाल–संवीत (√सम्-व्ये + क्त, २.१)
द्वितीयम्द्वितीय (२.१)
इवइव (अव्ययः)
भास्करम्भास्कर (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

था श्यद्द ग्री वो
रौ क्मं णं दा
स्ति जा सं वी तं
द्वि तीमि भास्क रम्