७.१६.२४

मानुषाः शब्दवित्रस्ता मेनिरे लोकसंक्षयम् ।
देवताश्चापि संक्षुब्धाश्चलिताः स्वेषु कर्मसु ॥

पदच्छेदः

मानुषाःमानुष (१.३)
शब्दवित्रस्ताशब्द–वित्रस्त (√वि-त्रस् + क्त, १.३)
मेनिरेमेनिरे (√मन् लिट् प्र.पु. बहु.)
लोकसंक्षयम्लोक–संक्षय (२.१)
देवताश्चापिदेवता (१.३)–च (अव्ययः)–अपि (अव्ययः)
संक्षुब्धाश्चलिताःसंक्षुब्ध (√सम्-क्षुभ् + क्त, १.३)–चलित (√चल् + क्त, १.३)
स्वेषुस्व (७.३)
कर्मसुकर्मन् (७.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मानु षाःब्द वि त्र स्ता
मेनि रे लो संक्ष यम्
दे ता श्चापि सं क्षु ब्धा
श्चलि ताः स्वेषुर्मसु