७.१७.२३

ततो वेदवती क्रुद्धा केशान्हस्तेन साच्छिनत् ।
उवाचाग्निं समाधाय मरणाय कृतत्वरा ॥

पदच्छेदः

ततोततस् (अव्ययः)
वेदवतीवेदवती (१.१)
क्रुद्धाक्रुद्ध (√क्रुध् + क्त, १.१)
केशान्केश (२.३)
हस्तेनहस्त (३.१)
साछिनत्तद् (१.१)–अछिनत् (√छिद् लङ् प्र.पु. एक.)
उवाचाग्निंउवाच (√वच् लिट् प्र.पु. एक.)–अग्नि (२.१)
समाधायसमाधाय (√समा-धा + ल्यप्)
मरणायमरण (४.१)
कृतत्वराकृत (√कृ + क्त)–त्वरा (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तो वे ती क्रु द्धा
के शा न्ह स्ते साच्छि नत्
वा चा ग्निं मा धा
णाकृत्व रा