७.१७.२४

धर्षितायास्त्वयानार्य नेदानीं मम जीवितम् ।
रक्षस्तस्मात्प्रवेक्ष्यामि पश्यतस्ते हुताशनम् ॥

M N Dutt

You object, having been outraged by you I wish not to live. Therefore, O Raksasa, I will enter into fire in your very presence.

पदच्छेदः

धर्षितायास्त्वयानार्यधर्षित (√धर्षय् + क्त, ६.१)–त्वद् (३.१)–अनार्य (८.१)
नेदानीं (अव्ययः)–इदानीम् (अव्ययः)
मममद् (६.१)
जीवितम्जीवित (१.१)
रक्षस्तस्मात्रक्षस् (२.१)–तस्मात् (अव्ययः)
प्रवेक्ष्यामिप्रवेक्ष्यामि (√प्र-विश् लृट् उ.पु. )
पश्यतस्तेपश्यत् (√दृश् + शतृ, ६.१)–त्वद् (६.१)
हुताशनम्हुताशन (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

र्षि ता यास्त्व या नार्य
ने दा नीं जीवि तम्
क्ष स्त स्मात्प्र वे क्ष्यामि
श्य स्तेहु ता नम्