७.१८.१५

माहेश्वरमिदं सत्रमसमाप्तं कुलं दहेत् ।
दीक्षितस्य कुतो युद्धं क्रूरत्वं दीक्षिते कुतः ॥

पदच्छेदः

माहेश्वरम्माहेश्वर (१.१)
इदंइदम् (१.१)
सत्रम्सत्त्र (१.१)
असमाप्तंअसमाप्त (१.१)
कुलंकुल (२.१)
दहेत्दहेत् (√दह् विधिलिङ् प्र.पु. एक.)
दीक्षितस्यदीक्षित (६.१)
कुतोकुतस् (अव्ययः)
युद्धंयुद्ध (१.१)
क्रूरत्वंक्रूर–त्व (१.१)
दीक्षितेदीक्षित (७.१)
कुतःकुतस् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मा हेश्वमि दंत्र
मा प्तंकु लं हेत्
दीक्षिस्यकु तो यु द्धं
क्रू त्वं दीक्षि तेकु तः