७.१८.१६

संशयश्च रणे नित्यं राक्षसश्चैष दुर्जयः ।
स निवृत्तो गुरोर्वाक्यान्मरुत्तः पृथिवीपतिः ।
विसृज्य सशरं चापं स्वस्थो मखमुखोऽभवत् ॥

पदच्छेदः

संशयश्चसंशय (१.१)–च (अव्ययः)
रणेरण (७.१)
नित्यंनित्यम् (अव्ययः)
राक्षसश्चैषराक्षस (१.१)–च (अव्ययः)–एतद् (१.१)
दुर्जयःदुर्जय (१.१)
तद् (१.१)
निवृत्तोनिवृत्त (√नि-वृत् + क्त, १.१)
गुरोर्गुरु (६.१)
वाक्यान्मरुत्तःवाक्य (५.१)–मरुत्त (१.१)
पृथिवीपतिःपृथिवीपति (१.१)
विसृज्यविसृज्य (√वि-सृज् + ल्यप्)
सशरं (अव्ययः)–शर (२.१)
चापंचाप (२.१)
स्वस्थोस्वस्थ (१.१)
मखमुखोमख–मुख (१.१)
ऽभवत्अभवत् (√भू लङ् प्र.पु. एक.)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
संश्च णे नि त्यं राक्ष श्चै
दुर्ज यःनि वृ त्तोगु रो र्वा क्या
न्म रु त्तःपृथि वी तिःवि सृज्य
रं चा पं स्व स्थोमु खोऽभ वत्