७.१८.१७

ततस्तं निर्जितं मत्वा घोषयामास वै शुकः ।
रावणो जितवांश्चेति हर्षान्नादं च मुक्तवान् ॥

पदच्छेदः

ततस्तंततस् (अव्ययः)–तद् (२.१)
निर्जितंनिर्जित (√निः-जि + क्त, २.१)
मत्वामत्वा (√मन् + क्त्वा)
घोषयामासघोषयामास (√घोषय् प्र.पु. एक.)
वैवै (अव्ययः)
शुकःशुक (१.१)
रावणोरावण (१.१)
जितवांश्चेतिजितवत् (√जि + क्तवतु, १.१)–च (अव्ययः)–इति (अव्ययः)
हर्षान्नादंहर्ष (५.१)–नाद (२.१)
(अव्ययः)
मुक्तवान्मुक्तवत् (√मुच् + क्तवतु, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्तं निर्जि तं त्वा
घो या मा वैशु कः
रा णोजि वां श्चेति
र्षा न्ना दं मुक्त वान्