७.१८.२

ततो मरुत्तं नृपतिं यजन्तं सह दैवतैः ।
उशीरबीजमासाद्य ददर्श स तु राक्षसः ॥

M N Dutt

And coming to Uśirabīja, Rāvaņa saw a king (named) Marutta, sacrificing along with the deities.

पदच्छेदः

ततोततस् (अव्ययः)
मरुत्तंमरुत्त (२.१)
नृपतिंनृपति (२.१)
यजन्तंयजत् (√यज् + शतृ, २.१)
सहसह (अव्ययः)
दैवतैःदैवत (३.३)
उशीरबीजम्उशीरबीज (२.१)
आसाद्यआसाद्य (√आ-सादय् + ल्यप्)
ददर्शददर्श (√दृश् लिट् प्र.पु. एक.)
तद् (१.१)
तुतु (अव्ययः)
राक्षसःराक्षस (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तो रु त्तंनृ तिं
न्तं दै तैः
शी बी मा साद्य
र्शतु राक्ष सः