७.१८.२६

ये च मद्विषयस्थास्तु मानवाः क्षुधयार्दिताः ।
त्वयि भुक्ते तु तृप्तास्ते भविष्यन्ति सबान्धवाः ॥

M N Dutt

Those men residing in my dominion, being smitten with hunger, shall be refreshed along with your relations, when you have eaten and been refreshed.

पदच्छेदः

येयद् (१.३)
(अव्ययः)
मद्विषयस्थास्तुमद्–विषय–स्थ (१.३)–तु (अव्ययः)
मानवाःमानव (१.३)
क्षुधयार्दिताःक्षुधा (३.१)–अर्दित (√अर्दय् + क्त, १.३)
त्वयित्वद् (७.१)
भुक्तेभुक्त (√भुज् + क्त, ७.१)
तुतु (अव्ययः)
तृप्तास्तेतृप्त (√तृप् + क्त, १.३)–तद् (१.३)
भविष्यन्तिभविष्यन्ति (√भू लृट् प्र.पु. बहु.)
सबान्धवाः (अव्ययः)–बान्धव (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

येद्वि स्थास्तु
मा वाःक्षु यार्दि ताः
त्वयि भु क्तेतु तृ प्ता स्ते
वि ष्यन्ति बान्ध वाः