७.१९.१३

ततः शक्रधनुःप्रख्यं धनुर्विस्फारयन्स्वयम् ।
आसदाद नरेन्द्रास्तं रावणं क्रोधमूर्छितः ॥

M N Dutt

And then himself drawing his bow resembling the bow itself of Sakra, that foremost of sovereigns, beside himself with wrath, approached Rāvana.

पदच्छेदः

ततःततस् (अव्ययः)
शक्रधनुःप्रख्यंशक्रधनुस्–प्रख्या (२.१)
धनुर्धनुस् (२.१)
विस्फारयन्विस्फारयत् (√वि-स्फारय् + शतृ, १.१)
स्वयम्स्वयम् (अव्ययः)
आससादआससाद (√आ-सद् लिट् प्र.पु. एक.)
नरेन्द्रास्तंनरेन्द्र (१.३)–तद् (२.१)
रावणंरावण (२.१)
क्रोधमूर्छितःक्रोध–मूर्छित (√मूर्छय् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तःक्र नुः प्र ख्यं
नु र्वि स्फान्स्व यम्
दा रे न्द्रा स्तं
रा णं क्रो मूर्छि तः