७.१९.२०

तस्यैवं ब्रुवतो राजा मन्दासुर्वाक्यमब्रवीत् ।
किं शक्यमिह कर्तुं वै यत्कालो दुरतिक्रमः ॥

M N Dutt

As he was speaking thus, the king, whose sounds were fast running out said: 'What can I do in this matter. Verily time is incapable of being controlled.

पदच्छेदः

तस्यैवंतद् (६.१)–एवम् (अव्ययः)
ब्रुवतोब्रुवत् (√ब्रू + शतृ, ६.१)
राजाराजन् (१.१)
मन्दासुर्मन्दासु (१.१)
वाक्यम्वाक्य (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
किं (१.१)
शक्यम्शक्य (१.१)
इहइह (अव्ययः)
कर्तुंकर्तुम् (√कृ + तुमुन्)
वैवै (अव्ययः)
यत्यद् (१.१)
कालोकाल (१.१)
दुरतिक्रमःदुरतिक्रम (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्यै वंब्रु तो रा जा
न्दा सु र्वाक्यब्र वीत्
किंक्यमि र्तुं वै
त्का लोदु तिक्र मः