७.१९.२१

न ह्यहं निर्जितो रक्षस्त्वया चात्मप्रशंसिना ।
कालेनेह विपन्नोऽहं हेतुभूतस्तु मे भवान् ॥

M N Dutt

I have been overcome by Time; you are merely an instrument. What can I do now, when I am going to-lose my life? I never turned away from fight; I have been slain fighting.

पदच्छेदः

(अव्ययः)
ह्यहंहि (अव्ययः)–मद् (१.१)
निर्जितोनिर्जित (√निः-जि + क्त, १.१)
रक्षस्त्वयारक्षस् (८.१)–त्वद् (३.१)
चात्मप्रशंसिना (अव्ययः)–आत्मन्–प्रशंसिन् (३.१)
कालेनेहकाल (३.१)–इह (अव्ययः)
विपन्नोविपन्न (√वि-पद् + क्त, १.१)
ऽहंमद् (१.१)
हेतुभूतस्तुहेतु–भूत (√भू + क्त, १.१)–तु (अव्ययः)
मेमद् (६.१)
भवान्भवत् (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ह्य हं निर्जि तोक्ष
स्त्व या चा त्मप्र शंसि ना
का ले नेवि न्नो ऽहं
हेतु भूस्तु मे वान्