७.१९.२२

किं त्विदानीं मया शक्यं कर्तुं प्राणपरिक्षये ।
इक्ष्वाकुपरिभावित्वाद्वचो वक्ष्यामि राक्षस ॥

पदच्छेदः

किं (१.१)
त्विदानींतु (अव्ययः)–इदानीम् (अव्ययः)
मयामद् (३.१)
शक्यंशक्य (१.१)
कर्तुंकर्तुम् (√कृ + तुमुन्)
प्राणपरिक्षयेप्राण–परिक्षय (७.१)
इक्ष्वाकुपरिभावित्वाद्इक्ष्वाकु–परिभाविन्–त्व (५.१)
वचोवचस् (२.१)
वक्ष्यामिवक्ष्यामि (√वच् लृट् उ.पु. )
राक्षसराक्षस (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

किंत्वि दा नीं या क्यं
र्तुं प्रा रिक्ष ये
क्ष्वाकुरि भा वि त्वा
द्व चो क्ष्यामि राक्ष