७.१९.७

प्राह राजानमासाद्य युद्धं मे संप्रदीयताम् ।
निर्जितोऽस्मीति वा ब्रूहि ममैतदिह शासनम् ॥

पदच्छेदः

प्राहप्राह (√प्र-अह् लिट् प्र.पु. एक.)
राजानम्राजन् (२.१)
आसाद्यआसाद्य (√आ-सादय् + ल्यप्)
युद्धंयुद्ध (√युध् + क्त, १.१)
मेमद् (६.१)
सम्प्रदीयताम्सम्प्रदीयताम् (√सम्प्र-दा प्र.पु. एक.)
निर्जितोनिर्जित (√निः-जि + क्त, १.१)
ऽस्मीतिअस्मि (√अस् लट् उ.पु. )–इति (अव्ययः)
वावा (अव्ययः)
ब्रूहिब्रूहि (√ब्रू लोट् म.पु. )
ममैतद्मद् (६.१)–एतद् (१.१)
इहइह (अव्ययः)
शासनम्शासन (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्रा रा जा मा साद्य
यु द्धं मे संप्र दी ताम्
निर्जि तो ऽस्मीति वा ब्रूहि
मैदि शा नम्