७.२.११

तास्तु सर्वाः प्रतिगताः श्रुत्वा वाक्यं महात्मनः ।
ब्रह्मशापभयाद्भीतास्तं देशं नोपचक्रमुः ॥

पदच्छेदः

तास्तुतद् (१.३)–तु (अव्ययः)
सर्वाःसर्व (१.३)
प्रतिगताःप्रतिगत (√प्रति-गम् + क्त, १.३)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
वाक्यंवाक्य (२.१)
महात्मनःमहात्मन् (६.१)
ब्रह्मशापभयाद्ब्रह्मन्–शाप–भय (५.१)
भीतास्तंभीत (√भी + क्त, १.३)–तद् (२.१)
देशंदेश (२.१)
नोपचक्रमुः (अव्ययः)–उपचक्रमुः (√उप-क्रम् लिट् प्र.पु. बहु.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तास्तु र्वाःप्रति ताः
श्रु त्वा वा क्यं हात्म नः
ब्रह्म शा या द्भी ता
स्तं दे शं नोक्र मुः