७.२.१२

तृणबिन्दोस्तु राजर्षेस्तनया न शृणोति तत् ।
गत्वाश्रमपदं तस्य विचचार सुनिर्भया ॥

पदच्छेदः

तृणबिन्दोस्तुतृणबिन्दु (६.१)–तु (अव्ययः)
राजर्षेस्तनयाराजर्षि (६.१)–तनया (१.१)
(अव्ययः)
शृणोतिशृणोति (√श्रु लट् प्र.पु. एक.)
तत्तद् (२.१)
गत्वाश्रमपदंगत्वा (√गम् + क्त्वा)–आश्रम–पद (२.१)
तस्यतद् (६.१)
विचचारविचचार (√वि-चर् लिट् प्र.पु. एक.)
सुनिर्भयासु (अव्ययः)–निर्भय (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तृ बि न्दोस्तु रा र्षे
स्त याशृ णोति तत्
त्वाश्र दंस्य
वि चासु निर्भ या