७.२.१७

सा तु कृत्वाञ्जलिं दीना कन्योवाच तपोधनम् ।
न जाने कारणं तात येन मे रूपमीदृशम् ॥

M N Dutt

Thereat, in .woe-begone guise, with joined hands, his daughter replied to that one having asceticism for the riches, 'O father, cause know I none whereby I have come by this appearance.

पदच्छेदः

सातद् (१.१)
तुतु (अव्ययः)
कृत्वाञ्जलिंकृत्वा (√कृ + क्त्वा)–अञ्जलि (२.१)
दीनादीन (१.१)
कन्योवाचकन्या (१.१)–उवाच (√वच् लिट् प्र.पु. एक.)
तपोधनम्तपोधन (२.१)
(अव्ययः)
जानेजाने (√ज्ञा लट् उ.पु. )
कारणंकारण (२.१)
ताततात (८.१)
येनयद् (३.१)
मेमद् (६.१)
रूपम्रूप (१.१)
ईदृशम्ईदृश (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सातु कृ त्वाञ्ज लिं दी ना
न्यो वा पो नम्
जा ने का णं ता
ये मे रू मीदृ शम्