७.२.२२

भगवंस्तनयां मे त्वं गुणैः स्वैरेव भूषिताम् ।
भिक्षां प्रतिगृहाणेमां महर्षे स्वयमुद्यताम् ॥

M N Dutt

O worshipful one, O mighty sage, do you accept this daughter of mine, adorned with her native perfections, who of herself has come to you as alms.

पदच्छेदः

भगवंस्तनयांभगवत् (८.१)–तनया (२.१)
मेमद् (६.१)
त्वंत्वद् (१.१)
गुणैःगुण (३.३)
स्वैर्स्व (३.३)
एवएव (अव्ययः)
भूषिताम्भूषित (√भूषय् + क्त, २.१)
भिक्षांभिक्षा (२.१)
प्रतिगृहाणेमांप्रतिगृहाण (√प्रति-ग्रह् लोट् म.पु. )–इदम् (२.१)
महर्षेमहत्–ऋषि (८.१)
स्वयम्स्वयम् (अव्ययः)
उद्यताम्उद्यत (√उत्-यम् + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वंस्त यां मे त्वं
गु णैः स्वै रे भूषि ताम्
भि क्षांप्रतिगृ हा णे मां
र्षेस्व मुद्य ताम्