७.२.२५

दत्त्वा तु स गतो राजा स्वमाश्रमपदं तदा ।
सापि तत्रावसत्कन्या तोषयन्ती पतिं गुणैः ।
प्रीतः स तु महातेजा वाक्यमेतदुवाच ह ॥

M N Dutt

Having given away his daughter, the king went (back) to his asylum; and the girl stayed there, gratifying her husband with her virtues.

पदच्छेदः

दत्त्वादत्त्वा (√दा + क्त्वा)
तुतु (अव्ययः)
तद् (१.१)
गतोगत (√गम् + क्त, १.१)
राजाराजन् (१.१)
स्वम्स्व (२.१)
आश्रमपदंआश्रम–पद (२.१)
तदातदा (अव्ययः)
सापितद् (१.१)–अपि (अव्ययः)
तत्रावसत्तत्र (अव्ययः)–अवसत् (√वस् लङ् प्र.पु. एक.)
कन्याकन्या (१.१)
तोषयन्तीतोषयत् (√तोषय् + शतृ, १.१)
पतिंपति (२.१)
गुणैःगुण (३.३)
प्रीतःप्रीत (√प्री + क्त, १.१)
तद् (१.१)
तुतु (अव्ययः)
महातेजामहत्–तेजस् (१.१)
वाक्यम्वाक्य (२.१)
एतद्एतद् (२.१)
उवाचउवाच (√वच् लिट् प्र.पु. एक.)
(अव्ययः)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
त्त्वातु तो रा जास्व माश्र
दं दा सापि त्रा त्क न्या
तो न्ती तिंगु णैः प्री तःतु
हा ते जा वाक्य मेदु वा