७.२.२६

परितुष्टोऽस्मि भद्रं ते गुणानां संपदा भृशम् ।
तस्मात्ते विरमाम्यद्य पुत्रमात्मसमं गुणैः ।
उभयोर्वंशकर्तारं पौलस्त्य इति विश्रुतम् ॥

M N Dutt

'O you of shapely hips, well-pleased am I with you with your wealth of worth, and therefore, O exalted one, I will today confer on you a son like to yourself, who will perpetuate both the lines*-being celebrated as Paulastya. *(i.e. maternal and paternal lines.)

पदच्छेदः

परितुष्टोपरितुष्ट (√परि-तुष् + क्त, १.१)
ऽस्मिअस्मि (√अस् लट् उ.पु. )
भद्रंभद्र (१.१)
तेत्वद् (६.१)
गुणानांगुण (६.३)
संपदासम्पद् (३.१)
भृशम्भृशम् (अव्ययः)
तस्मात्तस्मात् (अव्ययः)
तेत्वद् (६.१)
विरमाम्यद्यविरमामि (√वि-रम् लट् उ.पु. )–अद्य (अव्ययः)
पुत्रम्पुत्र (२.१)
आत्मसमंआत्मन्–सम (२.१)
गुणैःगुण (३.३)
उभयोर्उभय (६.२)
वंशकर्तारंवंश–कर्तृ (२.१)
पौलस्त्यपौलस्त्य (१.१)
इतिइति (अव्ययः)
विश्रुतम्विश्रुत (√वि-श्रु + क्त, २.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
रि तु ष्टोऽस्मि द्रं तेगु णा नां सं
दाभृ शम् स्मा त्तेवि मा म्यद्य
पुत्र मात्म मंगु णैः यो र्वं
र्ता रं पौस्त्यति विश्रु तम्