७.२.२९

स तु लोकत्रये ख्यातः शौचधर्मसमन्वितः ।
पितेव तपसा युक्तो विश्रवा मुनिपुंगवः ॥

पदच्छेदः

तद् (१.१)
तुतु (अव्ययः)
लोकत्रयेलोकत्रय (७.१)
ख्यातःख्यात (√ख्या + क्त, १.१)
शौचधर्मसमन्वितःशौच–धर्म–समन्वित (१.१)
पितेवपितृ (१.१)–इव (अव्ययः)
तपसातपस् (३.१)
युक्तोयुक्त (√युज् + क्त, १.१)
विश्रवाविश्रवस् (१.१)
मुनिपुंगवःमुनि–पुंगव (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तु लोत्र ये ख्या तः
शौर्मन्वि तः
पि ते सा यु क्तो
विश्र वामुनि पुं वः