७.२०.१४

अथाब्रवीद्दशग्रीवं नारदो भगवानृषिः ।
क्व खल्विदानीं मार्गेण त्वयानेन गमिष्यते ॥

M N Dutt

Then the reverend sage Närada spoke to the Ten-necked Ravana, Who save you can on forsooth go that journey? Verily, o irrepressible one, O destroyer of foes, the way leading to the city of the lord of the dead is difficult of access.

पदच्छेदः

अथाब्रवीद्अथ (अव्ययः)–अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
दशग्रीवंदशग्रीव (२.१)
नारदोनारद (१.१)
भगवान्भगवत् (१.१)
ऋषिःऋषि (१.१)
क्वक्व (अव्ययः)
खल्विदानींखलु (अव्ययः)–इदानीम् (अव्ययः)
मार्गेणमार्ग (३.१)
त्वयानेनत्वद् (३.१)–इदम् (३.१)
गमिष्यतेगमिष्यते (√गम् लृट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

थाब्र वीद्द ग्री वं
ना दो वानृ षिः
क्वल्वि दा नीं मा र्गे
त्व या ने मिष्य ते