७.२०.१७

तस्मादेष महाब्रह्मन्वैवस्वतवधोद्यतः ।
गच्छामि दक्षिणामाशां यत्र सूर्यात्मजो नृपः ॥

M N Dutt

Therefore,* O great Brahmana, intent upon slaying the Vaivasvata's son, I will go by this way which lead to the king-the offspring of the sun. *As you has commanded me.

पदच्छेदः

तस्माद्तस्मात् (अव्ययः)
एषएतद् (१.१)
महाब्रह्मन्महत्–ब्रह्मन् (८.१)
वैवस्वतवधोद्यतःवैवस्वत–वध–उद्यत (√उत्-यम् + क्त, १.१)
गच्छामिगच्छामि (√गम् लट् उ.पु. )
दक्षिणाम्दक्षिण (२.१)
आशांआशा (२.१)
यत्रयत्र (अव्ययः)
सूर्यात्मजोसूर्य–आत्मज (१.१)
नृपःनृप (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्मा दे हा ब्रह्म
न्वैस्व धोद्य तः
च्छामिक्षि णा मा शां
त्र सू र्यात्म जोनृ पः