७.२०.५

किंचिद्वक्ष्यामि तावत्ते श्रोतव्यं श्रोष्यसे यदि ।
श्रुत्वा चानन्तरं कार्यं त्वया राक्षसपुंगव ॥

पदच्छेदः

किंचिद्कश्चित् (२.१)
वक्ष्यामिवक्ष्यामि (√वच् लृट् उ.पु. )
तावत्तावत् (अव्ययः)
तेत्वद् (४.१)
श्रोतव्यंश्रोतव्य (√श्रु + कृत्, २.१)
श्रोष्यसेश्रोष्यसे (√श्रु लृट् म.पु. )
यदियदि (अव्ययः)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
चानन्तरं (अव्ययः)–अनन्तरम् (अव्ययः)
कार्यंकार्य (√कृ + कृत्, १.१)
त्वयात्वद् (३.१)
राक्षसपुंगवराक्षस–पुंगव (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

किं चि द्व क्ष्यामि ता त्ते
श्रो व्यं श्रोष्य सेदि
श्रु त्वा चान्त रं का र्यं
त्व या राक्ष पुं