७.२१.१

एवं संचिन्त्य विप्रेन्द्रो जगाम लघुविक्रमः ।
आख्यातुं तद्यथावृत्तं यमस्य सदनं प्रति ॥

M N Dutt

Having reflected thus, that foremost of Vipras endowed with fleet vigour, bent his steps towards the abode of Yama, for the purpose of relating to him all that had taken place.

पदच्छेदः

एवंएवम् (अव्ययः)
संचिन्त्यसंचिन्त्य (√सम्-चिन्तय् + ल्यप्)
विप्रेन्द्रोविप्र–इन्द्र (१.१)
जगामजगाम (√गम् लिट् प्र.पु. एक.)
लघुविक्रमःलघु–विक्रम (१.१)
आख्यातुंआख्यातुम् (√आ-ख्या + तुमुन्)
तद्तद् (२.१)
यथावृत्तंयथावृत्त (२.१)
यमस्ययम (६.१)
सदनंसदन (२.१)
प्रतिप्रति (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वं सं चिन्त्य वि प्रे न्द्रो
गाघु विक्र मः
ख्या तुंद्य था वृ त्तं
स्य नंप्रति