७.२१.२

अपश्यत्स यमं तत्र देवमग्निपुरस्कृतम् ।
विधानमुपतिष्ठन्तं प्राणिनो यस्य यादृशम् ॥

M N Dutt

There he saw that god Yama sitting in front of fire and offering into it the good and evil fruits of their actions. * *Ordaining happiness and misery to the lives of people according to their acts.'

पदच्छेदः

अपश्यत्अपश्यत् (√पश् लङ् प्र.पु. एक.)
तद् (१.१)
यमंयम (२.१)
तत्रतत्र (अव्ययः)
देवम्देव (२.१)
अग्निपुरस्कृतम्अग्नि–पुरस्कृत (√पुरस्-कृ + क्त, २.१)
विधानम्विधान (२.१)
उपतिष्ठन्तंउपतिष्ठत् (√उप-स्था + शतृ, २.१)
प्राणिनोप्राणिन् (६.१)
यस्ययद् (६.१)
यादृशम्यादृश (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

श्यत्स मंत्र
देग्निपुस्कृ तम्
वि धामु ति ष्ठ न्तं
प्राणि नोस्य यादृ शम्