७.२१.२४

विमुक्तकवचः क्रुद्धो सिक्तः शोणितविस्रवैः ।
स पुष्पकं परित्यज्य पृथिव्यामवतिष्ठत ॥

पदच्छेदः

विमुक्तकवचःविमुक्त (√वि-मुच् + क्त)–कवच (१.१)
क्रुद्धःक्रुद्ध (√क्रुध् + क्त, १.१)
सिक्तःसिक्त (√सिच् + क्त, १.१)
शोणितविस्रवैःशोणित–विस्रव (३.३)
तद् (१.१)
पुष्पकंपुष्पक (२.१)
परित्यज्यपरित्यज्य (√परि-त्यज् + ल्यप्)
पृथिव्याम्पृथिवी (७.१)
अवतिष्ठतअवतिष्ठत (√अव-स्था लोट् म.पु. द्वि.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वि मुक्त चः क्रु द्धो
सि क्तः शोणि विस्र वैः
पुष्प कं रि त्यज्य
पृ थि व्या तिष्ठ