७.२१.२६

ततः पाशुपतं दिव्यमस्त्रं संधाय कार्मुके ।
तिष्ठ तिष्ठेति तानुक्त्वा तच्चापं व्यपकर्षत ॥

M N Dutt

Now fixing the divine Pāśupata on his bow, and saying to them, 'stay! stay!' he drew that bow.

पदच्छेदः

ततःततस् (अव्ययः)
पाशुपतंपाशुपत (२.१)
दिव्यम्दिव्य (२.१)
अस्त्रंअस्त्र (२.१)
संधायसंधाय (√सम्-धा + ल्यप्)
कार्मुकेकार्मुक (७.१)
तिष्ठतिष्ठ (√स्था लोट् म.पु. )
तिष्ठेतितिष्ठ (√स्था लोट् म.पु. )–इति (अव्ययः)
तान्तद् (२.३)
उक्त्वाउक्त्वा (√वच् + क्त्वा)
तच्चापंतद्–चाप (२.१)
व्यपकर्षतव्यपकर्षत (√व्यप-कृष् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तः पाशु तं दिव्य
स्त्रं सं धा कार्मु के
तिष्ठ ति ष्ठेति ता नु क्त्वा
च्चा पंव्यर्ष