७.२१.६

एष नाम्ना दशग्रीवः पितृराज निशाचरः ।
उपयाति वशं नेतुं विक्रमैस्त्वां सुदुर्जयम् ॥

M N Dutt

Thereat the reverend sage, Narada, said; Hearken. I shall tell (you); and (after hearing me out) do you what is fit. o king of the Pitrs, here come the night-ranger named ten-necked, for bringing you under his sway you who are incapable of being conquered.

पदच्छेदः

एषएतद् (१.१)
नाम्नानामन् (३.१)
दशग्रीवःदशग्रीव (१.१)
पितृराजपितृराज (८.१)
निशाचरःनिशाचर (१.१)
उपयातिउपयाति (√उप-या लट् प्र.पु. एक.)
वशंवश (२.१)
नेतुंनेतुम् (√नी + तुमुन्)
विक्रमैस्त्वांविक्रम (३.३)–त्वद् (२.१)
सुदुर्जयम्सु (अव्ययः)–दुर्जय (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ना म्ना ग्री वः
पितृ रानि शा रः
याति शं ने तुं
विक्र मै स्त्वांसु दुर्ज यम्