७.२१.७

एतेन कारणेनाहं त्वरितोऽस्म्यागतः प्रभो ।
दण्डप्रहरणस्याद्य तव किं नु करिष्यति ॥

M N Dutt

O master, for this reason it is that I have come hither hastily, doubtful what shall befall you who have the rod for your weapon.

पदच्छेदः

एतेनएतद् (३.१)
कारणेनाहंकारण (३.१)–मद् (१.१)
त्वरितोत्वरित (१.१)
ऽस्म्यागतःअस्मि (√अस् लट् उ.पु. )–आगत (√आ-गम् + क्त, १.१)
प्रभोप्रभु (८.१)
दण्डप्रहरणस्याद्यदण्ड–प्रहरण (६.१)–अद्य (अव्ययः)
तवत्वद् (६.१)
किं (२.१)
नुनु (अव्ययः)
करिष्यतिकरिष्यति (√कृ लृट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ते का णे ना हं
त्वरि तो ऽस्म्या तःप्र भो
ण्डप्र स्याद्य
किंनु रिष्यति