७.२१.८

एतस्मिन्नन्तरे दूरादंशुमन्तमिवोदितम् ।
ददृशे दिव्यमायान्तं विमानं तस्य रक्षसः ॥

M N Dutt

In the meanwhile they saw the Rākṣasa's car approach from afar, flaming and like to the rayfurnished (one) risen.

पदच्छेदः

एतस्मिन्न्एतद् (७.१)
अन्तरेअन्तर (७.१)
दूराद्दूर (५.१)
अंशुमन्तम्अंशुमन्त् (२.१)
इवोदितम्इव (अव्ययः)–उदित (√उत्-इ + क्त, २.१)
ददृशेददृशे (√दृश् लिट् प्र.पु. एक.)
दिव्यम्दिव्य (२.१)
आयान्तंआयान्त् (√आ-या + शतृ, २.१)
विमानंविमान (२.१)
तस्यतद् (६.१)
रक्षसःरक्षस् (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्मि न्नन्त रे दू रा
दंशुन्तमि वोदि तम्
दृ शे दिव्य मा या न्तं
वि मा नंस्यक्ष सः