७.२२.११

रावणस्तु स्थितः स्वस्थः शरवर्षं मुमोच ह ।
तस्मिन्वैवस्वतरथे तोयवर्षमिवाम्बुदः ॥

M N Dutt

But Rāvana, without at all feeling any smart, began to shower arrows on Vaivasvata's vehicle, resembling a downpour caused by clouds.

पदच्छेदः

रावणस्तुरावण (१.१)–तु (अव्ययः)
स्थितःस्थित (√स्था + क्त, १.१)
स्वस्थःस्वस्थ (१.१)
शरवर्षंशर–वर्ष (२.१)
मुमोचमुमोच (√मुच् लिट् प्र.पु. एक.)
(अव्ययः)
तस्मिन्तद् (७.१)
वैवस्वतरथेवैवस्वत–रथ (७.१)
तोयवर्षम्तोय–वर्ष (२.१)
इवाम्बुदःइव (अव्ययः)–अम्बुद (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रा स्तुस्थि तः स्व स्थः
र्षंमु मो
स्मि न्वैस्व थे
तोर्षमि वाम्बु दः