७.२२.२४

मुञ्च मां साधु धर्मज्ञ यावदेनं निहन्म्यहम् ।
न हि कश्चिन्मया दृष्टो मुहूर्तमपि जीवति ॥

M N Dutt

Let me go. O you cognisant of righteousness, I shall slay this one. There is none that, albeit strong, can survive after having been seen by me.

पदच्छेदः

मुञ्चमुञ्च (√मुच् लोट् म.पु. )
मांमद् (२.१)
साधुसाधु (२.१)
धर्मज्ञधर्म–ज्ञ (८.१)
यावद्यावत् (अव्ययः)
एनंएनद् (२.१)
निहन्म्यहम्निहन्मि (√नि-हन् लट् उ.पु. )–मद् (१.१)
(अव्ययः)
हिहि (अव्ययः)
कश्चिन्मयाकश्चित् (१.१)–मद् (३.१)
दृष्टोदृष्ट (√दृश् + क्त, १.१)
मुहूर्तम्मुहूर्त (२.१)
अपिअपि (अव्ययः)
जीवतिजीवति (√जीव् लट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मुञ्च मां साधु र्मज्ञ
या दे नंनिन्म्य हम्
हि श्चिन्म या दृ ष्टो
मु हूर्तपि जीति