७.२२.२७

ततः संरक्तनयनः क्रुद्धो वैवस्वतः प्रभुः ।
कालदण्डममोघं तं तोलयामास पाणिना ॥

पदच्छेदः

ततःततस् (अव्ययः)
संरक्तनयनःसंरक्त (√सम्-रञ्ज् + क्त)–नयन (१.१)
क्रुद्धोक्रुद्ध (√क्रुध् + क्त, १.१)
वैवस्वतःवैवस्वत (१.१)
प्रभुःप्रभु (१.१)
कालदण्डम्कालदण्ड (२.१)
अमोघंअमोघ (२.१)
तंतद् (२.१)
तोलयामासतोलयामास (√तोलय् प्र.पु. एक.)
पाणिनापाणि (३.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तः संक्त नः
क्रु द्धो वैस्व तःप्र भुः
काण्ड मो घं तं
तो या मा पाणि ना