७.२२.२८

यस्य पार्श्वेषु निश्छिद्राः कालपाशाः प्रतिष्ठिताः ।
पावकस्पर्शसंकाशो मुद्गरो मूर्तिमान्स्थितः ॥

पदच्छेदः

यस्ययद् (६.१)
पार्श्वेषुपार्श्व (७.३)
निश्छिद्राःनिश्छिद्र (१.३)
कालपाशाःकालपाश (१.३)
प्रतिष्ठिताःप्रतिष्ठित (√प्रति-स्था + क्त, १.३)
पावकस्पर्शसंकाशोपावक–स्पर्श–संकाश (१.१)
मुद्गरोमुद्गर (१.१)
मूर्तिमान्मूर्तिमत् (१.१)
स्थितःस्थित (√स्था + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्य पा र्श्वेषु नि श्छि द्राः
का पा शाःप्र तिष्ठि ताः
पा स्पर्श सं का शो
मुद्ग रो मूर्ति मान्स्थि तः