७.२२.३६

तन्न खल्वेष ते सौम्य पात्यो राक्षसमूर्धनि ।
न ह्यस्मिन्पतिते कश्चिन्मुहूर्तमपि जीवति ॥

M N Dutt

Therefore, O mild one, you forsooth should not bring it down on Rāvana's head. If this alights on any one, he does not live for a moment.

पदच्छेदः

तन्नतद् (१.१)–न (अव्ययः)
खल्वेषखलु (अव्ययः)–एतद् (१.१)
तेत्वद् (६.१)
सौम्यसौम्य (८.१)
पात्योपात्य (√पातय् + कृत्, १.१)
राक्षसमूर्धनिराक्षस–मूर्धन् (७.१)
(अव्ययः)
ह्यस्मिन्हि (अव्ययः)–इदम् (७.१)
पतितेपतित (√पत् + क्त, ७.१)
कश्चिन्मुहूर्तम्कश्चित् (१.१)–मुहूर्त (२.१)
अपिअपि (अव्ययः)
जीवतिजीवति (√जीव् लट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

न्न ल्वे ते सौम्य
पा त्यो राक्ष मूर्धनि
ह्य स्मिन्पति तेश्चि
न्मु हूर्तपि जीति