७.२२.३८

राक्षसेन्द्रान्नियच्छाद्य दण्डमेनं वधोद्यतम् ।
सत्यं मम कुरुष्वेदं लोकांस्त्वं समवेक्ष्य च ॥

M N Dutt

Therefore do you keep your uplifted weapon off Larkā's lord. If you have any care for these worlds do you establish my truth.

पदच्छेदः

राक्षसेन्द्रान्नियच्छाद्यराक्षस–इन्द्र (५.१)–नियच्छ (√नि-यम् लोट् म.पु. )–अद्य (अव्ययः)
दण्डम्दण्ड (२.१)
एनंएनद् (२.१)
वधोद्यतम्वध–उद्यत (√उत्-यम् + क्त, २.१)
सत्यंसत्य (२.१)
मममद् (६.१)
कुरुष्वेदंकुरुष्व (√कृ लोट् म.पु. )–इदम् (२.१)
लोकांस्त्वंलोक (२.३)–त्वद् (१.१)
समवेक्ष्यसमवेक्ष्य (√समव-ईक्ष् + ल्यप्)
(अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

राक्ष से न्द्रान्नि च्छाद्य
ण्ड मे नं धोद्य तम्
त्यंकु रु ष्वे दं
लो कां स्त्वं वेक्ष्य