७.२३.२३

एतस्मिन्नन्तरे क्रुद्धा वरुणस्य महात्मनः ।
पुत्राः पौत्राश्च निष्क्रामन्गौश्च पुष्कर एव च ॥

M N Dutt

In the meantime the sons and grandsons of the high-souled Varuņa, as well as those of Puskara issued forth.

पदच्छेदः

एतस्मिन्न्एतद् (७.१)
अन्तरेअन्तर (७.१)
क्रुद्धाक्रुद्ध (√क्रुध् + क्त, १.३)
वरुणस्यवरुण (६.१)
महात्मनःमहात्मन् (६.१)
पुत्राःपुत्र (१.३)
पौत्राश्चपौत्र (१.३)–च (अव्ययः)
निष्क्रामन्निष्क्रामन् (√निः-क्रम् लङ् प्र.पु. बहु.)
गौश्चगो (१.१)–च (अव्ययः)
पुष्करपुष्कर (७.१)
एवएव (अव्ययः)
(अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्मि न्नन्त रे क्रु द्धा
रुस्य हात्म नः
पु त्राः पौ त्राश्च नि ष्क्रा
न्गौश्च पुष्क