७.२३.२६

अमात्यैस्तु महावीर्यैर्दशग्रीवस्य रक्षसः ।
वारुणं तद्बलं कृत्स्नं क्षणेन विनिपातितम् ॥

M N Dutt

And in a short while that entire host of Varuņa was brought down by the highly powerful councillor of that Raksasa Daśagrīva.

पदच्छेदः

अमात्यैस्तुअमात्य (३.३)–तु (अव्ययः)
महावीर्यैर्महत्–वीर्य (३.३)
दशग्रीवस्यदशग्रीव (६.१)
रक्षसःरक्षस् (६.१)
वारुणंवारुण (१.१)
तद्तद् (१.१)
बलंबल (१.१)
कृत्स्नंकृत्स्न (१.१)
क्षणेनक्षण (३.१)
विनिपातितम्विनिपातित (√विनि-पातय् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मा त्यैस्तु हा वी र्यै
र्द ग्रीस्यक्ष सः
वारु णंद्ब लं कृ त्स्नं
क्ष णेविनि पाति तम्