७.२३.३४

ते तु तेषां रथाः साश्वाः सह सारथिभिर्वरैः ।
महोदरेण निहताः पतिताः पृथिवीतले ॥

M N Dutt

And destroyed by Mahodara, their cars and horses together with their foremost charioteers, lay down on the earth.

पदच्छेदः

तेतद् (१.३)
तुतु (अव्ययः)
तेषांतद् (६.३)
रथाःरथ (१.३)
साश्वाः (अव्ययः)–अश्व (१.३)
सहसह (अव्ययः)
सारथिभिर्सारथि (३.३)
वरैःवर (३.३)
महोदरेणमहोदर (३.१)
निहताःनिहत (√नि-हन् + क्त, १.३)
पतिताःपतित (√पत् + क्त, १.३)
पृथिवीतलेपृथिवी–तल (७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तेतु ते षां थाः सा श्वाः
साथि भिर्व रैः
हो रेनि ताः
ति ताःपृथि वी ले